________________
( ९३ )
व्यञ्जनान्ताद् धातोः परस्य देर्लुग् भवति, यथासम्भवं धातो:
अजागृताम्
अजागरुः अत्र
सो दुश्च भवति । अजागः पुसि ' पुस्पौ ' इति गुणः ।
जाग्रुषसमिन्धेर्नवा । ३ । ४ । ४९ ।
एभ्यः परस्याः परोक्षाया आम् वा भवति । आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । जागराञ्चकार जागराम्बभूव जागरामास । पक्षे जजागार ।
जागुः किति । ४ । ३ । ६ ।
जागृधातोः किति प्रत्यये परे गुणो भवति । जजागरतुः जजागरुः । जजागरिथ जजागरथुः जजागर । जजागार, जजागर जागरिव जजागरिम । जागर्यात् । जागरिता । जागरिष्यति । अजागरिष्यत् । अजागरीत् । चकासृक् दीप्तौ । चकास्ति चकास्तः चकासति । चकास्ति चकास्थः चकास्य । चकास्मि चकास्वः चकास्मः । चकास्यात् । चकास्तु चकास्ताम् चकासतु । हेविवे काधि पक्षे
सोधि वा । ४ । ३ । ७२ ।
धातोर्भादौ प्रत्यये सो लुग् वा भवति । चकाधि । चकास्तम् वास्त । चकासानि चकासाव चकासाम । अचकात् अचकास्ताम् अचकासुः ।
सेः सद्धां च रुर्वा । ४ । ३ । ७९ ।