SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ (९२) ताम् अदरिद्रुः । अदरिद्राः अदरिद्रितम् अदरिद्रित । अदरिद्राम् अदरिद्रिव अदरिद्रिम । परोक्षायाम्' धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम् । ३ । ४ । ४६ । अनेकस्वराद् धातोः परस्याः परोक्षायाः स्थाने आम् भवति । आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । दरिद्राचकार । दरिद्राम्बभूव । दरिद्रामास । ' आतो णव औः' इत्यत्र ओकारेणैव सिद्धे औकारविधानात् दरिद्रातेरामादेशस्यानित्यत्वाद् ददरिद्रौ ददरिद्रतुः ददरिद्रुः । ददरिद्रिय ददरिद्रथुः ददरिद्र । ददरिद्रौ ददरिद्रिव ददरिद्रिम इत्यपि सिद्धम् । अशित्यस्सन्णकच्णकानटि । ४ । ३ । ७७ । सादिसन्नादिवनितेऽशिति प्रत्यये विषये दरिद्रातेरन्तस्य लुग भवति । दरिद्यात् । दरिद्रिता । दरिद्रिष्यति । अदरिद्रिष्यत् । दरिद्रोऽद्यतन्यां वा । ४।३ । ७६ । दरिद्रातेरद्यतन्यां विषये लुग् वा भवति । अदरिद्रीत्, पक्षे “यमिरमिनम्यातः ' इति सोऽन्तः अदरिद्रासीत् । जागृक् निद्राक्षये । जागति जागृतः जाग्रति । जागर्षि जागृथः जागृथ । जागर्मि जागृवः जागृमः । जागृयात् । जागर्तु । जागृहि । मागराणि जागराव जागराम । हस्तन्यां गुणे सति व्यअनाद् दे सश्च दः । ४।३ । ७८ । "
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy