SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ (८९) अनविष्यत् । अनावीत् । क्ष्णुक तेजने । क्ष्णौतिक्ष्णुतःक्ष्णुवन्ति। क्ष्णुयात् । क्ष्णौतु । अक्ष्णौत् । चुक्ष्णाव । क्ष्णूयात् । क्ष्णविता । क्ष्णविष्यति । अक्ष्णविष्यत् । अक्ष्णावीत् । स्नुक् प्रस्नवने । स्नौति । स्नुयात् । स्नौतु । अस्नौत् । सस्नौ। अस्नोत् । सुस्नाव । स्नूयात् । स्नविता । स्नविष्यति। अस्नविष्यत । अस्नावीत् । टुक्षु रु कुंक् शब्दे । क्षौति । क्षुयात् । क्षौतु । अक्षौत् । चुक्षाव । झूयात् । क्षविता । क्षविष्यति । अक्षविष्यत् । अक्षावीत् । रौति 'यङ्तु-' इति रवीति रुतः रुवन्ति । स्यात् । रौतु अरौत् । रुराव । रूयात् । रविता । रविष्यति । अरविष्यत् । अरावीत । कौति । कुयात् । कौतु । अकौत् । चुकाव । कूयात् । कोता। कोष्यति । अकोष्यत् । अकौषीत् । रुदृक् अश्रुविमोचने । रुत्पश्चकाच्छिदयः । ४ । ४ । ८८ । रुदादेः पञ्चतः परस्य व्यञ्जनादेः शितोऽयादेरादिरिड् भवति । रोदिति रुदितः रुदन्ति । रोदिषि रुदिथः रुदिथ । रोदिमि रुदिवः रुदिमः । रुद्यात् । रोदितु, रुदितात् रुदिताम् रुदन्तु। रुदिहि, रुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम । 'दिस्योरीट्' ' अदश्चाट्' अरोदीत् , अरोदत् अरुदिताम् अरुदन् । अरोदीः, अरोदः अरुदितम् अरुदित । अरोदम् अरुदिव अरुदिम। रुरोद । रुद्यात् । रोदिता । रोदिष्यति । अरोदिष्यत् । अरुदत अरुदताम् अरुदन् । अरुदः अरुदतम् अरुदत । पक्षे अरोदीत् अरोदिष्टाम् अरोदिषुः । भिष्वपंक् शये । स्वपिति स्वपितः स्व
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy