SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ (८१) शदेः शिति । ३ । ३ । ४१ । शिद्विषयाच्छदेः कर्तर्यात्मनेपदं भवति । श्रौतिकृवु-' शीयते । शीयेत । शीयताम् । अशीयत । शशाद शेदतुः शेदुः शेदिय । शद्यात् । शत्ता । शत्स्यति । अशत्स्यत् । अशदत् । बुध अवगमने । बोधति । बुबोध । अबोधीत् । टुवमू उद्गिरणे । वमति । जभ्रमवमत्रसफणस्यमस्वनराजभ्राजभ्रासभ्लासो वा. ।४।१ । २६ । एषां स्वरस्यावित्परोक्षासेट्यवोरेर्वा भवति, न च द्विः । ववाम ववमतुः, वेमतुः ववमुः, वेमुः । वेमिथ, ववमिथ वेमथुः, ववमथुः वेम, ववम । ववाम, ववम वेमिव, ववमिव वेमिम, ववमिम । अवमीत् । भ्रमू चलने । ' भ्रासम्लासभ्रमक्रम-' इत्यादिना भ्राम्यति, भ्रमति । बभ्राम बभ्रमतुः, भ्रमतुः बभ्रमः, भ्रमुः । बभ्रमिथ, भ्रमिथ । अभ्रमीत् । क्षर सञ्चलने । क्षरति। अक्षारीत्। चल कम्पने । चचाल चेलतुः । अचालीत् । जल घात्ये । जजाल जेलतुः । अजालीत्, । टल ट्वल वैक्लव्ये । ठल स्थाने । तस्थाल । अस्थालीत् । हल विलेखने । जहाल । अहालीत् । णल गन्धे । ननाल नेलतुः नेलुः । अनालीत् । बल प्राणनधान्यावरोधयोः । अबालीत् । पुल महत्त्वै। पुपोल । अपोलीत् । कुल बन्धुसंस्त्यानयोः कोलति । चुकोल । पल फल शल
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy