________________
(८०).
कृपः श्वस्तन्याम् । ३।३ । ४६ । . ___कृपः श्वस्तनीविषये कर्तर्यात्मनेपदं वा भवति । कल्तासि । कल्पितासे, कल्प्तासे । कल्पिष्यते, कल्प्स्यते । कल्प्स्यति । अकल्पिष्यत, अकल्प्स्यत । अकल्प्स्यत् । अकल्पिष्ट, अक्लप्त । अक्लुपत् । इति वृद्-धुतादिगणः समाप्तः ।
अथ भाद्यन्तर्गणो ज्वलादिः। ---- ज्वल दीप्तौ । ज्वलति । ग्लेत् । ज्वलतु । अज्वलत् । जन्वाल । ज्वल्यात् । नलिता । न्वलिष्यति । अज्वलिष्यत् । अन्वालीत् । कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । कोचति । चुकोच । अकोचीत् । पत्ल पतने । पतति । पपात पेततुः पेतुः । अद्यतन्याम् –' लविद्युतादि-' इत्यादिनाऽङि
श्वयत्यसूबचपतः श्वास्थवोचपप्तम् । ४।३ । १०३ । ' एषामङि यथासङ्ख्यं श्वाट्यो भवन्ति । अपप्तत् । अपप्ताम् अपप्तन् । क्वथे निष्पाके । क्वथते । चक्वाथ । अक्वथीत् । मथे विलोडने । मथति । ममाथ मेथतुः मेथुः । अमथीत् । षद्लं विशरणगत्यवसादनेषु । 'श्रौतिकृवु-'इत्यादिना सीदादेशे। सीदति । सीदेत् । सीदन । असीदत् । ससाद सेदतुः सेदुः । सेदिथ । सत्ता । सत्स्यति । असत्स्यत् । असदत् असदताम् असदन् । 'सदोऽप्रते: परोक्षायां त्वादेः' निषीदति । निषसाद । प्रतिषीदति । शलं शातने ।