________________
(१६)
.
- पदान्ते वतमानस्य नकारस्य शकारे परे च् इत्यादेशो वा स्यात् । भवान्+शूरः-भवाञ्चशूरः इति जाते — प्रथमादधुटि' इत्यादिना छत्वे भवाळच्छरः इति सिद्धम् ।
इनः सः त्सोऽश्च । १।३ । १८ । पदान्ते वतमानाद् डकाराद् नकाराच्च परस्य सकारस्य स्थाने त्स इत्यादेशः स्यात् । श्चावयवश्चत् सकारो न स्यात्। षड्+सीदन्तिषडत्सीदन्ति, भवान्+साधु:-भवान्त्साधुः । अश्चेति किम् ? षट श्योतन्ति ।
नोऽप्रशानोऽनुस्वारानुनासिको च
पूर्वस्याधुटपरे । १ । ३ । ८। . पदान्तस्थस्य प्रशान्वर्जशब्दसम्बन्धिनो नस्य चटतेषु सद्वितीयेषु अधुट्परेषु शषमा यथासंख्यं स्युः, अनुस्वारानुनासिकौ च पूर्वस्य । भवान्+चारु:-भवांश्चारुः, भवाश्चारुः । भवान् छेकःभवांश्छेकः, भवाश्छेकः। भवान्+टक:-भवांष्टकः,भवाष्टकः। भवान्+ ठकारः-भवांष्ठकारः, भवाँष्ठकारः । भवान्+तनु:-भवांस्तनुः, भवाँस्तनुः । मवान्+थुडति-भवांस्थुडति, भवास्थुडति । प्रशान्वर्जनं किम् । प्रशान्+चरः-प्रशाश्चरः । अधुडिति किम् ? भवान त्सरुकः।
- ... . पुमोऽशिव्यघोषेऽख्यागि । १ । ३।९।