________________
(७३) अगूहिषत । अगूहिष्ठाः अगूहिषायाम् अगूहिड्ढ्वम् । अगूहिषि अगूहिष्वहि अगूहिष्महि । इडभावे सकि ... दुहदिलिहगुहो दन्त्यात्मने वा सकः । ४।३१७४।
एभ्यः परस्य सको दन्त्यादावात्मनेपदे लुवा भवति । अगूढ, अघुक्षत । अधुक्षाताम् अघुक्षन्त अगूढाः, अधुक्षथाः अघुक्षाथाम् अघुक्षध्वम् , अघुड्वम् । अघुक्षि अघुक्षावहि, अगुहहि अघुक्षामहि, अगुमहि ।
अथ वृत यजादिः। - यनी देवयूजासंगतिकरणदानेषु । यजति । यजते । यजेत् । यजेत । यजतु । यजताम् । अयजत् । अयजत । परोक्षायाम्.. यजादिवशश्चः सस्वरान्तस्था स्मृत् । ४ । १। ७२ । . - यजादेर्वशवचोश्च परोक्षायां हित्वे पूर्वस्य सस्वरान्तस्था इउऋरूपा य्वृद् भवति । इयाज ।
____ यजादिवचेः किति । ४ । १ । ७९ ।
यजादीन वचेश्च सस्वरान्तस्था किति परे य्वृत् भवति । ईजतु: ईजुः । इयजिथ, इयष्ठ ईजथुः ईज । इयाज, इयन इयजिव इयजिम । ईजे ईजाते ईजिरे । इज्यात् । यक्षीष्ट । यष्टासि । यष्टासे । यक्ष्यति । यक्ष्यते । अयक्ष्यत् , अयक्ष्यत । अयाक्षीत् अयाष्टाम् अयाक्षुः । अयाक्षीः अयाष्टम् अयाष्ट । अयासम् अयाझ्व अयाक्ष्म । अयष्ट अयक्षाताम्