________________
(७२) लेषै । अलाषीत् , अलषीद्, अलषिष्ट । चषी लक्षणे । छषी हिंसायाम् । त्विषी दीप्तौ । त्वेषति । त्वेषते । तित्वेष । तित्विषे । त्विष्यात् ।
सिजाशिषावात्मने । ४ । ३ । ३५ । , नाम्युपान्त्याद् धातोरात्मनेपदविषयावनिटौ सिजाशिषौ किद्वद् भवतः । त्विक्षिष्ट । त्वेष्टासि । त्वेष्टासे । त्वेक्ष्यति। त्वेक्ष्यते । अत्वेक्ष्यत् । अत्वेक्ष्यत । अत्वेक्षीत् । अत्विष्ट, अत्विषाताम् । अषी असी गत्यादानयोश्च । दासग् दाने । दासति । दासते । दास । दासे । अदासीत् । अदासिष्ट । माग् माने । माहति । माहते । ममाह । ममाहे । अमाहीत्। अमाहिष्ट। गुहौग संवरणे ।
गोहः स्वरे । ४ । २ ४२।। . कृतगुणस्य गुहेः स्वरादौ प्रत्यये परे उपान्त्यस्य उद् भवति । निगृहति । निगूहते । निगृहेत् । निगृहेत । निगृहतु । निगूहताम् । न्यगृहत् । न्यगृहत । निजुगूह निजुगुहतुः निजुगुहुः । निजुगूहिथ । निगुहे। गुह्यात् । गूहिषीष्ट औदित्त्वाद्विकल्पेट कित्त्वे च घुक्षीष्ट । गृहिता, गोढा । गृहितासे, गोढासे । निगूहिष्यति, निघोक्ष्यति । निगूहिष्यते, नियोक्ष्यते । अगूहिष्यत् , अधोक्ष्यत्। अगहिष्यत, अघोक्ष्यत । अगृहीत् अगूहिष्टाम् अगूहिषुः । इडभावपक्षे ' हशिटो नाम्युपान्त्याद्' इत्यादिना सक् अधुक्षत् अधुक्षताम् .. अधुक्षन् । अघुक्षः... अवृक्षतम् अक्षत । अघुक्षम् अघुक्षाव अधुक्षाम । अगृहिष्ट अरहिषाताम्