________________
(१४) अथ व्यञ्जनसन्धिः।
धुटस्तृतीयः । २ । १ । ७६ । पदान्ते वर्तमानस्य धुटः स्थाने तृतीयः स्यात् । वाक+ईशः वागीशः, षट्+अत्र-षडत्र ।
तृतीयस्य पश्चमे । १।३।१। पदान्ते वर्तमानस्य तृतीयस्य स्थाने पञ्चमे परे आसन्नो वाऽनुनासिक: स्यात् । षड् मम षण्मम । प्रत्यये पञ्चमे नित्यं षण्णाम् , वाङमयम् ।
प्रथमादधुटि शश्छः । १ । ३ । ४ । पदान्ते वर्तमानात प्रथमात् परस्य शकारस्याधुटि परे छो वा स्यात । वाक्+शूरः-वाक्छ्रः , तत+श्लोकेन-तच्छ्लोकेन ।
ततो हश्चतुर्थः । १।३।३। ___पदान्ते वर्तमानात् तृतीयात् परस्य हकारस्य स्थाने पूर्ववर्णसवगश्चतुर्थो वा स्यात् । वाग्धीनः, वाग्हीनः । तद् हितं, तदधितम् । तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटवौँ । १ । ३ ।६०।
तवर्गस्य स्थाने शकारेण चवर्गेण च योगे चवर्गः स्यात्, तथा षकारेण टवर्गेण च योगे टवर्ग: स्यात । तत्+शेते-तच्छेते, भवान्+शेते-भवाशेते, तत्+चित्रम्-तच्चित्रम् , पेष्+ता-पेष्टा, तत+टीकते-तट्टीकते।