________________
( १३ )
आ"
अपेहि, इ इन्द्रं पश्य, उ उत्तिष्ठ, आ एवं किल मन्यसे, आ एवं नुं तत् । अनाङिति किम् ? आ ईषद् उष्णम् - ओष्णम्, आगच्छ-आगच्छ, आ उदकान्ताद्-ओदकान्तात् । ईषदर्थे क्रियायोगे मर्यादायामभिविधौ आ इत्यव्ययं ङित् कथ्यते, अन्यत्र : तु अति बोध्यम् ।
ओदन्तः । १ । २ । ३७ । ओकारान्तश्चादिः स्वरे परेsसन्धिः स्यात् । अहो अत्र,
उताहो अत्र ।
प्लुतोऽनितौ । १ । २ । ३२ ।
स्वाभाविकोच्चारणापेक्षयाऽधिकोच्चारणं तद् दूरं आमन्त्रणमभिमुखीकरणम् दूरादामन्त्रणार्थे वर्तमानस्य वाक्यस्य हे : संज्ञा ज्ञेया । इतिवर्जे स्वरे परे प्लुतोऽसन्धिः स्यात् । भो देवदत्त ३ एहि, देवदत्त ३ अत्र न्वसि । अनिताविति किम् । सुश्लोक ३ इति – सुश्लोकेति ।
इति प्रकृतिभावः समाप्तः ।
यत्र