________________
(२९) लघोरुपान्त्यस्य । ४।३।४। धातोपान्त्यस्य लघोर्नाभिनो गुणो भवति, अकिति अङिति च प्रत्यये परे। ओखति । ओखेत् । ओखतु । औखत् । उवोख उखतुः उखुः । उवोखिए । उखथुः । उख्यात् । ओखिता भोखिष्यति । औखिष्यत् । औखीत् , औखिष्ट म् , औखिषुः । ऋदिकरणं मा भवानोखिखत् इत्यादौ हूस्व भावार्थम् । लाखति । लाखेत् । लाखतु । अलाखत् । ललाख । लाख्यात् । लाखिता। लाखिष्यति । अलाखिष्यत् । अलाखीत । 'शाख श्लाख व्याप्तौ। शाखति । शाखेत् । शाखतु । अशाखत् । शशाख । शाख्यात् । शाखिता । शाखिष्यति । अशाखिष्यत । अशाखीत् । 'उख नख णख वख मख रख लख मखु रखु लखु रिखु इख ईखु गतौ' । नखधातुर्नोपदेशस्तेन प्रनखति । णखधातुस्तु णोपदेशस्तस्य 'पाठे धात्वादेो नः' इति नखति । नखेत् । नखतुः। प्रणखति । प्रणखेत् । प्रणखतु । 'अदुरुपसर्गान्तरो णहिनुमीनानेः । इति णत्वम् । प्राणखत् । . णिति । ४।३। ५०।
धातोरुपान्त्यस्यातोऽकारस्य वृद्धिर्भवति, निति णिति च प्रत्यये । ननाख । प्रणनाख । नेखतुः। नेखुः । प्रणेखतुःT प्रणेनुः। प्रणख्यात् । प्रणखिता। प्रणखिष्यति । प्राणखिष्यतः प्राणखीत् । अनखीत , अनासीत् । प्राणाखीत् । मङ्खति। मझेत्।