________________
ऋकारादौ धातौ परे ऋता सहोपसर्गस्थस्यावर्णस्यार् स्यात्। प्र+ऋच्छति-प्रार्च्छति, उप+ऋच्छति-उपार्च्छति । नामावयवे ऋकारादौ धातौ परे वाऽऽर ज्ञेयः । प्र+ऋषभीयति-प्रार्षभीयति, प्रर्षभीयति ।
__ऋते तृतीयासमासे । १ । २।८ ।
अवर्णस्य ऋते परे तृतीयासमासे ऋकारेण सहार स्यात् । शीतेन+ऋतः-शीतार्तः । तृतीयासमासे इति किम् ? परमश्चासौ ऋतश्च परमर्तः ।
लतः रल ऋलभ्यां वा । १ । २ । ३ । लतः ऋलभ्यां सह यथासंख्यं रल इत्येतावादेशौ वा स्याताम् । ल+ऋकारः-रकारः, ल+लकारः-टुकारः ।
___ ऋतो वा तौ च । १ । २ । ४ ।
ऋतः ऋलभ्यां सह यथासंख्यं रल इत्येतौ विलक्षणावादेशौ वा स्याताम् । पितृ ऋषभः-पिवृषभः। होतृालकारः-होलकारः। तौ च ऋतः ऋलभ्यां सह ऋकारलकारावपि होतृ ऋकारःहोतृकारः, होतृ+लकारः-होत्लकारः, पक्षे पूर्ववत् पितृऋषभ इत्यादयः ।
ऋस्तयोः। १ । २ । ५ । तयोः लकारऋकारयोः ऋकार-लकाराभ्यां सह ऋ इति दीर्घादेशः स्यात् । ल+ऋषभः-ऋषभः।होतृ लकार:-होतृकारः। ऋकारे लकारे च परे समानस्य इस्वोऽपि वा भवति ।