SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ (१०) अवर्णस्य एकारैकाराभ्यां तथौकारौकाराभ्यां सह यथासंख्यं ऐ औ इत्येतौ स्याताम् । तव + एषा - तवैषा तव + ऐश्वर्यम् - तवैश्वर्यम्, तव+ओदनः- तवौदनः, रमा + ओदनः - रमौदनः, तव + औन्नत्यम्तवौन्नत्यम्, खट्वा + औन्नत्यम् - खट्वौन्नत्यम् । स्वरैस्वैर्यक्षौहिण्याम् । १ । २ । १५ । स्वैर स्वैरिन् अक्षौहिणी इत्येतेषु अवर्णस्य परेण स्वरेण सह ऐ औ इत्येतौ स्याताम् । स्व + ईरः स्वैरः, स्व + ईरिणी - स्वैरिणी अक्ष+ऊहिणी-अक्षौहिणी सेना । पदोतः पदान्तेऽस्य लुक् । १ । २ । २७ । पदान्ते स्थिताभ्यामेकारौकाराभ्यां परस्याकारस्य लुक् स्यात् । ते + अत्र - तेऽत्र, पटो + अत्र - पटोऽत्र । 'शकन्ध्वादिषु टेर्लोपो वाच्यः' शक+अन्धुः शकन्धुः, कर्क + अन्धुः - कर्कन्धुः कुल+अटा-कुलटा, हल + ईषा - हलीषा, मनस् + ईषा - मनीषा, सीमन् + अन्तः - सीमन्तः, आकृतिगणोऽयमिति एतादृशाः प्रयोगा अन्येऽपि मार्तण्ड इत्यादयः शकन्ध्वादिगणे ज्ञातव्याः । ओमाङि । १ । २ । १८ । 1 अवर्णस्य लोपः स्यादोमि आङादेशे च परे । अद्य + ओम्अद्योम्, आ + ऊढा - ओढा - अद्योढा 1 ॠत्यारुपसर्गस्य । १ । २ । ९ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy