SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ स्वरे वाऽनक्षे । १।२ । २९ । अक्षशब्दवर्जिते स्वरे परे गोरोकारस्यावादेशो. वा स्यात् । गो+अजिनम्-गवाजिनम् , गो+अग्रम् -गवाग्रा , 'वाऽत्यसन्धिः ' इत्यनेन वा प्रकृतिभावे च गोअग्रम् , पक्षे 'एदोतः पदान्तेऽस्य लुक ' इति लुकि गोऽयम् । गो+इंगितम्-गवेङ्गितम् । इन्द्रे च । १।२ । ३० । इन्द्रशब्दे परे पदान्तस्थस्य गोरोकारस्य नित्यमवादेशः स्यात् । गवेन्द्रः । अवर्णस्येवर्णादिनैदोदरल् । १ । २ । ६ । अवर्णस्य इवर्ण-उवर्ण-ऋवर्ग-लवणैः सह यथासंख्यमेद् ओत् अर् अल् इत्येते आदेशाः स्युः । तव+इदम्-तवेदम , मम +उदकम्-ममोदकम् ,मना+उदयः-गंगोदयः,तव+ऋद्धिः-तवर्द्धिः, मम+ऋद्धिः-ममर्द्धिः, तव लकारः-तवल्कारः, मम+लकारःममल्कारः । समानानां तेन दीर्घः । १ । २।१। समानानां तेन परेण समानेन सह दीघः स्यात् । दण्ड+ अग्रम्-दण्डाग्रम् , दधि+इदम्-दधीदम् , मधु+उदकम्-मधूकम् , पितृ+ऋकारः-पितृकारः । ऐदौतौ सन्ध्यक्षरैः । १ । २ । १२ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy