________________
(1)
एदैतोऽयाय । १।२।२३। एकारैकारयोः स्थाने स्वरे परे यथासंख्यमयाय इत्येतौ स्याताम्। ने+अनम्-नयनम् , ए+अनम्-अयनम् , नै+अकः-नायकः, रै+अकः-रायकः ।
. ओदौतोऽवाव । १ । २ । २४ ।
ओकारौकारयोः स्थाने यथासंख्यमवावौ स्यातां स्वरे परे । लो+अनम्-लवनम् , पो+अनम्-पवनम् , लो+अकः-लावकः, पौ+अकः-पावकः । गोशब्दस्य यूतिशब्दे परेऽध्वपरिमाणे चौकारस्यावादेशः, गव्यूतिः क्रोशद्रयम् ।
___ स्वरे वा । १ । ३ । २४। ___ अवर्णात् परयोः पदान्तस्थयोर्यकारवकारयोः स्वरे परे वा लुक् स्याद् न च सन्धिः । ते आगताः इति स्थिते ' एदैतोऽयाम् । इति अयादेशे तय् आगताः, अनेन वा लुकि त आगताः, तयागताः । पटो इह इति स्थिते । ओदौतो' इत्यादिना अवादेशे पटवू+इह इति जाते वा लुकि पट इह पटविह । एवं तस्मै इदम्-तस्मा इदं तस्मायिदम् , तौ इह-ता इह-ताविह। .
गोर्नाम्न्यवोऽक्षे । १ । २ । २८ । पदान्तस्थस्य गोरोकारस्याक्षशब्दे परे संज्ञायामव इत्यकारान्त आदेशः स्यात् । गो+अक्षः अनेनावादेशे कृते 'समानानाम् ' इत्यादिना दीर्धे कृते गवाक्षः वातायनः ।