________________
अदीर्घाद् विरामैकव्यअने । १।३। ३२ ।
दीघवर्जितात् स्वरात् परस्य रकार-हकार-स्वरवर्जितस्य वणस्य द्वे रूपे वा स्यातां विरामे असंयुक्तव्यञ्जने च परे । इति धकारस्य वा द्वित्वे दध्य+अत्र इति नाते
तृतीयस्तृतीयचतुर्थे । । ।३। ४९ । धुटः स्थाने तृतीये चतुर्थे च परे तृतीयः स्यात्। इति प्रथमधकारस्य दत्वे दद्ध्य+अत्र इति जाते स्वरहीनं परेण संयोज्यं दद्ध्यत्र इति सिद्धम् । नहि+अत्र इति स्थिते 'इवर्णादीनामस्वे स्वरे' इत्यादिना यत्वे नय्+अत्र इति जाते ' अदीर्घाद् ' इत्यादौ रकार-हकार-स्वरवर्जनाद् नह इत्यस्य न द्वित्वं किन्तु तत्र
दिर्हखरस्यानु नवा ।। ३ । ३१ । स्वरात् पराभ्यां रेफ हकाराभ्यां परस्य रेफ-हकार-स्वरवर्जितस्य वर्णस्य द्वे रूपे वा स्याताम् । इति यकारस्य द्वित्वे नय्यत्र इति सिद्धम् । एवं गौरी+अत्र-गौयंत्र जलालाबुन्यायेन रेफस्योर्ध्वगमनम् , उक्तं च शास्त्रान्तरेऽपि
"तुम्बिका-तृण-काष्ठं च तैलं जलसमागमे । , ऊर्ध्वस्थानं समायान्ति रेफाणामीहशी गतिः" ॥१॥
पक्षे दध्यत्र नह्यत्र गौर्यत्र । एवं मधु+अत्र- मद्ध्वत्र, मध्वत्र । पितृ+अर्थः-पित्रथः। ल+अनुबन्धः-लनुबन्धः । लु+आकृतिःलाकृतिः इत्यादीनामपि यथासूत्रप्राप्ति सिद्धिर्ज्ञातव्या ।