________________
पुरो वर्णानुच्चारणमवमानं विरामः । स्यमौजसः पुंस्त्रियोः, नपुंसके जस्शसादेशः शिश्च घुटसंज्ञकाः, संबोधनार्थ सिं विना घुटः शेषघुटसंज्ञकाः । अन्त्याद् वर्णात् पूर्वो वर्ण उपधा। अननुस्वारादिपरो इस्वो लघुसंज्ञकः । दीर्घो गुरुसंज्ञकः, अनुस्वार-विसर्ग-संयोगपरो हस्वोऽपि गुरुः । स्वरानन्तरितव्यञ्जनसमुदायः संयोगः । शत्रुवद् आदेशः । मित्रवद् आगमः । लुक् लुप् लोपश्च अदर्शनम् । अन्त्यस्वरात् परस्य अन्त्यस्वरस्य च टिसंज्ञा, इत्यादयोऽनुक्ता उक्ताश्च संज्ञा वेदितव्याः ।
इति संज्ञाप्रकरणम् ।
अथ स्वरसन्धिः ।
. दधि+अत्र इति स्थिते इवर्णादेरस्वे स्वरे यवरलम् । १।२।२१ ।
इवर्णोवर्णऋवर्णलवर्णानामस्खे स्वरे यथासंख्यं यवरला इत्येते आदेशा; स्युः, संहिताया विषये । यदुक्तम्
"संहितकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १॥" ध्य+अत्र इति जाते