________________
"हकारं पञ्चमैर्युक्तमन्तस्थैश्च संयुतम् । उरःसंस्थं विजानीयात् कण्ठ्यमाहुरसंयुतम्" ॥१॥
अथास्यप्रयत्नः-स्पृष्टकरणं स्पर्शानाम् , ईषत्स्पृष्टकरणमन्तस्थानाम् , ईषद्विवृतकरणमूष्मणाम् , विवृतकरणं स्वराणाम् । तत्र क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म एते स्पर्शाः । य र ल वा ईषत्स्पृष्टाः । श ष स हा एत ऊष्माणः । स्वरा विवृताः, तत्राकारस्तावत् त्रिविधः, उदात्तानुदात्तस्वरितभेदात् ; प्रत्येकं सानुनासिकनिरनुनासिकभेदात् षोढा, एते हस्वस्य भेदाः । एवं दीर्घप्लुतयोरपि तथा चाष्टादश भेदा अवर्णस्य ज्ञातव्याः। एवमिवर्णादीनामपि तावन्तो भेदा विज्ञेयाः। सन्ध्यक्षराणां हस्वा न सन्तीति तेषांद्वादश भेदाः सन्ति । वाः पञ्च पञ्च परस्परं स्वसंज्ञकाः । यवलानां सानुनासिक-निरनुनासिकभेदौ मिथः स्त्रौ ।
अप्रयोगीत् । १।१ । ३७ । इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा कार्यार्थ गृहीतः सन् लौकिकप्रयोगे न दृश्यते स एति-अपगच्छतीति इत्संज्ञकः स्यात् ।
गुणोऽरेदोत् । ३ । ३।२। अर् एत् ओत् इत्येते प्रत्येकं गुणसंज्ञकाः स्युः ।
वृद्धिरादौत् । ३।३ । १। आ आर ऐ औ इत्येते प्रत्येकं वृद्धिसंज्ञकाः स्युः। एवं स्यादयस्त्यादयश्च विभक्तिसंज्ञकाः, विभक्त्यन्ताः पदसंज्ञकाः,