________________
( ४ )
ड ढ ण द ध न ब भ म
अघोषादन्ये वर्णा घोषवत्संज्ञकाः स्युः । ग घ ङ ज झ ञ य र लं बह इति । अं अः - क) (पशषसाः शिट् । १ । १ । १६ । अकपा उच्चारणार्थाः, अनुस्वारविसर्गौ वज्रगजकुम्भाकृती शषसाश्च वर्णाः शिट्संज्ञकाः स्युः ।
य-र-ल-वा अन्तस्था: । १ । १ । १५ । निरनुनासिक - सानुनासिकभेदभिन्ना य र ल वा अन्तस्थासंज्ञकाः स्युः ।
तुल्यस्थानास्यप्रयत्नः स्वः । १ । १ । १७ । भाषावर्गणापुदलस्कन्धस्य यत्र वर्णभावापत्तिस्तत् स्थानम् । आस्ये मुखे प्रयत्न आस्यप्रयत्नः आन्तरिक व्यापारविशेषः । तुल्यौ वर्णान्तरेण सदृशौ स्थानास्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्वसंज्ञकः स्यात् । तत्र वर्णानां स्थानानि -
" अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिहामूलं च दन्ताच नासिकोष्ठौ च तालु च ॥ १ ॥ अवर्ण-कवर्ग-ह-विसर्गाः कण्ठस्थाताः, इवर्ण चवर्ण-य-शास्तालव्याः, उवर्ण- पवर्गोपध्मानीया ओष्ठस्थानाः, ऋवर्ण- टवर्ग-र-षा मूर्धन्याः, लवर्ण- तवर्ग-ल-सा दन्त्याः, ए ऐ तालव्यौ, ओ औ ओष्ठ्यौ, वकारो दन्त्यौष्ठ्यः, जिह्वामूलीयो जिह्वयः, नासिक्योs - नुस्वारः, ङञणनमाः स्वस्वस्थाना नासिकास्थानाश्च । वर्गाणां पञ्चमैर्युक्तोऽन्तस्यैश्च युक्तो हकार उरः स्थानीयः, तदुक्तम् —