SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ( २६ ) आत् सन्ध्यक्षरस्य । ४ । २ । १ । सन्ध्यक्षरस्य धातोराद् भवति । न शिति । ४ । २ । ३। 1 " " सन्ध्यक्षरस्य धातोः शिद्विषये आ न भवति । दधौ । 'इडे'त्पुसि चातो लुक् ' दधतुः दधुः । दधिय दधाथ | दधिव । दधिम । ' गापास्थासादामाहाकः धेयात् । धाता । धास्यति । अधास्यत् । अद्यतन्यां ' टूवेघाशाच्छासो वा अधात्, अधाताम्, अधुः । अधाः, अधातम्, अघात । अधाम् अधाव, अधाम । सिज्लुगभावे अधासीत्, अघासिष्टाम् अधासिषुः । अधासीः, अधासिष्टम्, अघासिष्ट । अधासिषम् अधासिष्वं, अधासिष्म । " दूधेश्वेर्वा । ३ । ४ । ५९ । " आभ्यां कर्तर्यद्यतन्यां ङो वा भवति । अदधत् अदधताम्, अदधन्। अधः, अद्धतम् अद्धत । अधम्, अदधाव, अदम। पक्षे पूर्ववत् । ‘दे॑व् शोधने' । दायति । दायेत् । दायतु । अदायत्। ददौ ददतु, दः । ददि ददाथ | दाज्ञाऽभावादेत्त्वाभावः । दायात् । दाता | दास्यति । अदास्यत् । अदासीत् । 'ध्यै चिन्तायाम् ' ध्यायति । ध्यायेत् । ध्यायतु । अध्यायत् । दध्यौ । ध्यायात्, ध्येयात् । ध्याता | ध्यास्यति । अध्यास्यत् । अध्यासीत् । '' हर्षक्षये' । ग्लायति । ग्लायेत् । ग्लायतु । अग्लायत् । जग्लौ
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy