________________
(२२)
सवति । सवेत् । सवतु । असवत् । सुसाव । सूयात् । मोता। सोष्यति । असोष्यत् । अद्यतन्याम्
धूग्मुस्तोः परस्मै । ४।४।८५ । __ एभ्यः परस्य परस्मैपदविषये सिंच आदिरिडू भवति। असावीत् , असाविष्टाम, असाविषुः। असावीः, असाविष्टम्, असाविष्ट । असाविषम्, असाविष्व, असाविष्म । 'स्मं चिन्तायाम्।-स्मरति । स्मरेत् । स्मरतु । अस्मरत् । परोक्षायां द्वित्वे
ऋतोऽत् । ४ । १।३८ । द्वित्वे सति पूर्वस्य ऋकारस्यादित्यादेशो भवति । सस्मार ।
संयोगादृदर्तेः । ४।३।९। संयोगात् परो य ऋत् तदन्तस्यार्तेश्च धातोः परोक्षायां गुणो भवति । न तु कोपलक्षितायाम् । सस्मरतुः । सस्मरुः ।
ऋतः । ४।४। ७९। ऋदन्तात् तृन्नित्यानिटो विहितस्य थव आदिरिड् नः भवति । सस्मर्थ, सस्मरथुः, सस्मर । सस्मार सस्मर, सस्मरिव, सस्मरिम।
क्ययङाशीयें । ४।३।१०। संयोगात् परो य ऋकारस्तदन्तस्यात्तेश्च धातोः क्ये बकि