SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ (१८) यमिरमिनम्यातः सोऽन्तश्च । ४।४।८६ । एभ्य आकारान्तेभ्यश्च परस्य परस्मैपदे सिच आदिरिडू भवति । एषां च सोऽन्तः । अडागमे अघ्रा+स+इ+स+द् इति स्थिते सः सिजस्तेर्दिस्योः । ४।३ । ६५ । सिजन्तादस्तेश्च सकारान्ताद् धातोः परयोः दिस्योरादिरीकारो भवति । इट ईति । ४ । ३ । ७१। इटः परस्य सिन ईति परे लुम् भवति । दीर्घ च कृते अघासीद्, अघ्रासिष्टाम् , अनासिषुः। अघ्रासीः, अघ्रासिष्टम्, अघ्रासिष्ट । अघ्रासिषम्, अनासिष्व, अघ्रासिष्म । 'ध्मां शब्दाग्निसंयोगयोः '-धमादेशे धमति । धमेत् । धमतु । अधमत् । अध्मासीत् , अध्मासिष्टाम्, अध्मासिषुः । परोक्षायां द्वित्वे अनादिव्यअनस्य लुकि हूस्वे चतुर्थस्य तृतीये णवश्चौकारे दध्मौ, आकारलोपे दध्मतुः, दध्मुः । दध्मिथ, दध्माथ, दध्मथुः, दधम । दध्मौ, दध्मिव, दध्मिम । ध्मेयात्, मायात् । ध्माता । मास्यति । अध्मास्यत् । 'ठां गतिनिवृत्तौ'-'श्रौतिकृवु-' इत्यादिना तिष्ठादेश तिष्ठति । तिष्ठेत् । तिष्ठतु। अतिष्ठत् । परोक्षायां 'पः सोऽष्टयैष्ठिवष्वष्कः इति सत्वे स्था+स्था+णव् इति स्थिते अघोषे शिटः । ४।१ । ४५ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy