SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ गहोर्जः । ४ । १ । ४०। द्वित्वे सति पूर्वस्य गकारहकारयो देशो भवति । जघ्रा+णवू इति स्थिते ' आतो णव औः' इति णवः स्थाने औकारादेशे जघ्रौ । ' इडेत्पुसि चातो लुक्' इत्याकारस्य लुकि जघ्रतुः, जः। जघ्रिथ जघ्राथ, जघ्रथुः, जघ्र। जघ्रौ, जघ्रिव, जघ्रिम । आशिषि-- घ्रा+यात् इति स्थिते- संयोगादेर्वाऽऽशिष्येः । ४।३।९५।। संयोगादेरादन्तस्य धातोः ङिति आशिषि एकारो वा भवति । घेयात् , घेयास्ताम् , घेयासुः। घेयाः प्रेयास्तम् , घेयास्त । प्रेयासम्, नेयास्व, घेयास्म । पक्षे घ्रायात, घ्रायास्ताम्, घ्रायासुः । श्वस्तनी-घाता, घ्रातारौ, घ्रातारः । घ्रातासि घ्रातास्थः घातास्थ । घ्रातास्मि घातास्वः घातास्मः । भविष्यन्तीघास्यति, घ्रास्यतः, घ्रास्यन्ति । नास्यसि, घ्रास्यथः, घ्रास्यथ । घ्रास्यामि, घ्रास्यावः, घ्रास्यामः । क्रियातिपत्तिः-अघ्रास्यत्, अघ्रास्यताम्, अघ्रास्यन् । अघ्रास्यः, अघ्रास्यतम्, अघ्रास्यत । अघ्रास्यम्, अघास्याव, अघ्रास्याम । अद्यतन्याम् धेघाशाच्छासो वा । ४।३।६७। ... एभ्यः परस्य सिचो लुब् वा भवति परस्मैपदे। लुब्योमे केह न भवति । अघ्रात्, अघ्राताम्, 'सिनविदोऽभुवः । अधुः। अघ्राः अबातम्, अघ्रात । अघ्राम्, अघ्राव, अघ्राम । पक्षे
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy