SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ अद्यतनी १५।२।४। भूतेऽर्थे वर्तमान द् धातोरद्यतनी भवति । अद्यतनी दि, ताम, अन्; सि, तम् , त; अम्, व, म । त, आताम, अन्त; थास्, आथाम्, ध्वम् इ, वहि, महि । ।३।३।११। इमे प्रत्यया अद्यतनी भवन्ति, पाणिनीये तन्त्र एषां बुडिति सन्ज्ञा । भू+दि इति स्थिते सिजद्यतन्याम् । ३।४। ५३ । धातोः परः सिच् भवति, अद्यतन्यां परस्याम् । भू++दि इति स्थिो-' अड् धातोरादिः । इत्यादिनाऽडागमे अभूमि-दि इति स्थितेपिवैतिदाभूस्थः सिचो लुप् परस्मै न चेड्। ४ । ३ । ६६ । देति दासज्ञा धातवो ग्राह्याः । पिब् इण् दा भू स्था इत्येतेभ्यः परस्य परस्मैपदस्य सिचो लुब् भवति । लुब्योगे न चेट। सिंचो लुपि गुणे प्राप्ते.-- ____भवतेः सिज्लपि । ४ । ३ । १२ । भुवः सिचो लुपि गुणो न भवति । अभूत् , अभूताम्,अभू+ अन् इति स्थिते उवादेशे उपान्त्यस्योत्त्वे अभूवन् । अभूः, अमृतम्, अमृत । अभूवम्, अभूव, अभूम । 'भूङ् प्राप्तौ' इति त्वात्मनेपदीति भवते, भव+आते इति स्थिते
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy