________________
(१०) प्रयोजनं यस्याः तस्यां क्रियायामुपपदे वर्त्यदर्थाद्धातोः तुम्-णकच्-भविष्यन्त्यो भवन्ति । भविष्यन्ती स्यति, स्यतस्, स्यन्ति; स्यसि, स्यस्थस्, स्यथ: स्यामि, स्यावस् , स्यामस । स्यते, स्येते, स्यन्ते; स्यसे, स्येथे, स्यध्वे स्ये, स्यावहे, स्यामहे । ३ । ३ । १५॥ भविष्यति, भविष्यतः, भविष्यन्ति । भविष्यसि, भविष्यथा, भविव्यथ । भविष्यामि, भविष्यावः, भविष्यामः । । सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः । ५ । ४।९।
सप्तम्या अर्थो निमित्तं हेतुफल-कथनादिसामग्री । कुतश्चिद् वैगुण्यात् क्रियाया अनभिनिवृत्तिः क्रियातिपत्तिः, तस्यां सत्यां भविष्यदर्थाद् धातोः सप्तम्यर्थे क्रियातिपत्तिर्भवति । क्रियातिपत्तिः स्यत्, स्यताम् , स्यन् ; स्यम्, स्यतम्, स्यत स्यम्, स्याव, स्याम। स्यत, स्येताम्, स्यन्त; स्यथास, स्येथाम, स्यध्वम् ; स्ये, स्यावहि, स्यामहि ॥३॥३॥१६॥
इमानि वचनानि क्रियातिपत्तिः भवन्ति, पाणिनीये लङ् इति सञ्ज्ञा। 'अड् धातोरादि' इति अडागमे इटि गुणेऽवादेशे च अभविष्यत्, अभविष्यताम् , अभविष्यन् । अभविष्यः, अभविप्यतम्, अभविष्यत । अभविष्यम्, अभविण्याव, अभविष्याम । अभविष्यद् युद्धशान्तिरिदानी समयं वस्तु समागमिष्यत् ।