________________
( ३ )
स्वं पचसि, युवा पचयः, यूयं पचथ । अस्मदर्थे - अहं पचामि, आर्वा पचावः, वयं पचामः । एवं सर्वत्र । द्वयोः त्रयाणां व युगपद् योगे सूत्रापेक्षया पराश्रितमेव वचनम् - स च त्वं च पचथः, अत्र पचत इति न भवति, सूत्रे युष्मदः परपठितत्वेन तदाश्रितस्यैव द्विवचनस्य भवनात् । स च त्वं चाहं च पचामः ।
एकद्विबहुषु । ३ । ३ । १८ ।
अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तानि एकद्विबहुष्वर्थेषु यथासंख्यं भवन्ति । अर्थादेकस्मिन्नर्थे एकवचनं द्वयोर्द्विवचनं बहुषु च बहुवचनम् । 'भू सत्तायाम् ' भू इति परस्मैपदिनो धातोः कर्तरि तिवादयो भवन्ति । तत्रैकत्वविवक्षायां भू+तिव् इति स्थिते चकारो वित्कार्यार्थः ।
कर्तर्यनद्भयः शव् । ३ । ४ । ७१ ।
अदादिवर्जाद् धातोः कर्तरि शव् प्रत्ययो भवति शिति परे । शकारवकारौ शिद्वित्कार्यार्थी । भू+अ+ति इति स्थितेगुणोऽदोत् । ३ । ३ । २ ।
..
भर् एत् ओत् एते प्रत्येकं गुणसञ्ज्ञा भवन्ति । नामिनो गुणोऽक्ङिति । ४ । ३ । १ ।
किङिर्जिते प्रत्यये परे नाम्यन्तस्य धातोर्गुणो भवति,
स चासन्नः । भो+अ+ति अवादेशे भवति । द्वित्वविवक्षायां भवतः । बहुत्वे भव+अन्ति ' कुपस्यादेत्यपदे ' भवन्ति । मध्यमपुरुषैकव
3