SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ईकारेतो गकारेतश्च धातोः कर्तर्यात्मनेपदं वा भवति । शेषात् परस्मै । ३।३।१०० । पूर्वोक्तनिमित्तरहिताद् धातोः कर्तरि परस्मैपदं भवति । नवाऽऽद्यानि शतृत्वसू च परस्मैपदम् । ३ । ३ । १९ । सर्वासां विभक्तीनां मध्ये आद्यानि नव नव वचनानि शतृक्वसू च प्रत्ययौ परस्मैपदं भवति । पराणि कानानशौ चात्मनेपदम् । ३ । ३ । २० । सर्वासां विभक्तीनां मध्ये पराणि नव नव वचनानि कानानशौ च प्रत्ययौ आत्मनेपदं भवति । वर्तमानातिव्, तस्, अन्ति; सिव् , थस् , थ; मिव् , वस् , मस् । ते, आते, अन्ते से, आथे, वे ए, वहे, महे । ३।३।६। तिवादीनां वर्तमानासम्ज्ञा भवति, केषांचिद् मते एषां सज्ञा लट् । प्रारब्धापरिसमाप्तो वर्तमानस्तदर्थाद् धातोर्वर्तमाना विधेया। त्रीणि त्रीण्यन्ययुष्मदस्मदि । ३।३ । १७ । ... सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नर्थे युष्मदर्थेऽस्मदर्थे च वाच्ये यथाक्रमं भवन्ति । प्रथमपुरुष-मध्यम: पुरुषोत्तमपुरुष इति अन्य-युष्मदस्मदां यथाक्रमं नामान्तराणि । अन्यस्मिन् वाच्ये-स पचति, तौ पचतः, ते पचन्ति । युष्मदि
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy