________________
( २३६ )
प्रकृतेऽर्थे वर्तमानादस्मिन्नित्यर्थे मयड् भवति । प्रकृतमन्नमस्मिन् अन्नमयं भोजनम् । प्रधाना अपृपा यस्मिन् तद् अपूपमयं पर्व । निन्द्ये पाशप् । ७ । ३ । ४ ।
निन्द्येऽर्थे वर्तमानात् स्वार्थे पाशबू भवति । निन्द्यो क्याकरणो वैयाकरणपाशः । नैयायिकपाशः ।
प्रकृष्टे तमप् । ७ । २ । ५ ।
प्रकृष्टेऽर्थे वर्तमानाद् नाम्नः तमप् प्रत्ययो भवति । अयमेषां 1 प्रकृष्टः शुक्लः शुकृतमः । एवं साधकतमः, कारकतमः, उपकारक
तमः ।
- द्वयोर्विभज्ये च तरप् । ७ । ३।६।
द्वयोर्गुणयोरर्थयोर्मध्ये यः प्रकृष्टस्तस्मिन् द्वयोर्विभज्ये च वर्तमानात् तरप् प्रत्ययो भवति । अनयोरयं प्रकृष्टः पटुः पटुतरः सुकुमारतरः, साङ्काश्येभ्यः पाटलिपुत्रका आढ्यतराः । क्वचित् स्वार्थेऽपि अभिन्नमेवाभिन्नतरकम्, उच्चैस्तराम् ।
गुणाङ्गाद् वेष्ठेयसू । ७ । ३।९।
गुण एवाङ्गं प्रवृत्तौ हेतुर्यस्य तस्मात् तमप्तरपोर्विषये यथा“ संख्यमिष्ठ ईयसुश्च भवतः । अयमेषामतिशयेन पटुरिति पटिष्ठ: पटुतमः । अयमनयोरतिशयेन पटुरिति पटीयान् पटुतरः ॥ अयमेषामनयोर्वाऽतिशयेन प्रशस्य इति इष्ठेयसौ परे -
"
प्रशस्यस्य भ्रः । ७ । ४ । ३४ ।