________________
(११५)
स्वरूपार्थवृत्तिभ्यो वर्णवाचिभ्योऽव्ययेभ्यश्च कारो भवति ।। अकारः, इकारः, ओंकारः, चकारः, नमस्कारः । 'रशब्दादेको वा वाच्यः' रेफः, रकारः।
नामरूपभागाद् धेयः । ७।२ । १५८ । स्वार्थे धेयः प्रत्ययो भवति । नामधेयम् , रूपधेयम् , भागधेयम् । 'नवशब्दात् स्वार्थे ईन तन ल य इत्येते प्रत्यया नवशब्दस्य च नू आदेशो वाच्यः' नवीनम्, नूतनम्, नूत्नम्, नव्यम् । 'देव.. शब्दात् स्वार्थे तल' देवता।
प्रज्ञादिभ्योऽण् । ७ । २ । १६५ । एभ्यः स्वार्थेऽण् भवति । प्रज्ञ एव प्राज्ञः, वणिगेव वाणिनः ।
विनयादिभ्यः । ७ । २ । १६९ । एभ्य इव.ण स्वार्थे भवति । विनय एव वै यिकः । • सामायिकम् ।
प्रकृते मयट् । ७।३।१।। प्राचुर्येण प्राधान्येन वा कृतं प्रसनम् । तदर्थे वर्तमानात् स्वार्थे मयड् भवति । प्रचुरमन्नमन्नमयम्। प्रचुर प्रानं वा दधि दधिमयम् । पूजामयम् ।
अस्मिन् । ७।३।२।।