SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ( २३४ ) तीयान्ताच्छम्बबीजाभ्यां च कृगा योगे कृषौ विषये डाच् भवति । द्वितीयाकरोति द्वितीयवारं कर्षतीत्यर्थः । शम्बाकरोति क्षेत्रम् - अनुलोमकृष्टं पुनस्तिर्यक् कर्षतीत्यर्थः । बीजाकरोतिउप्ते सति पश्चाद् बीजैः कर्षतीत्यर्थः । प्रियसुखादानुकूल्ये । ७ । २ । १४० । 1 आभ्यां कृगा योगे आनुकूल्ये गम्ये डाच् भवति । प्रियाकरोति, सुखाकरोति गुरुम् । 'दुःखात् प्रातिकूल्ये डाच् वाच्यः दुःखाकरोति शत्रुम् । बह्वरूपार्थात् कारकादिष्टानिष्ठे प्रशस् । ७ । २ १५० । कारकवाचिभ्यां बह्वल्पार्थाभ्यां यथासंख्यमिष्टेऽनिष्टे च विषये पित् शस् वा भवति । बहु अतिथिभ्यो ददाति बहुशो ददाति धनम् । अल्पं ददाति अल्पशो ददाति धनं चण्डालाय । ग्रामे बहु बहुशो ददाति । श्राद्धे अल्पमल्पशो ददाति । संख्यैकार्थाद् वीप्सायां शस् । ७ । २ । १५१ । संख्यावाचिन एकत्वविशिष्टार्थवाचिनश्च कारकार्थाद् वीप्सायां शस् वा भवति । एकैकं ददाति एकशो ददाति । द्वौ द्वौ ददाति द्विशो ददाति । त्रिशो ददाति । माषं माषं ददाति माषशो ददाति । संख्यैकार्थादिति किम् - माषौ माषौ दत्ते । वर्णाव्ययात् स्वरूपे कारः । ७ । २ । १५६ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy