SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ( २३० ) वा क्रियते अनेकमेकमेकवा वा करोति । 'एकाद् ध्यमञपि अनेकमेकमैकध्यं करोति । द्वित्रेमधौ वा । ७ । २ । १०७ । प्रकारे वर्तमानाभ्यां द्वित्रिभ्यां विचाले च गम्ये एतौ वा भवतः । द्वैधम्, द्वेषा, द्विधा; त्रैधम्, त्रेधा, त्रिधा भुङ्क्ते । एकराशि द्वौ करोति द्वैधं द्वेधा, द्विधा वा करोति । एवं त्रैधं, त्रेधा, त्रिधा । तद्वति धण् । ७ । २ । १०८ । प्रकारवति विचालयति चार्थे द्वित्रिभ्यां घण् भवति । द्वैधानि, त्रैधानि । कृत्वस् । ७ । २ । १०९ । वारे वारे वर्तमानात् संख्यार्थाद् वारवति धात्वर्थे कृत्वस् भवति । पौनःपुन्यं वारः । पञ्चवारं भुङ्क्ते पञ्चकृत्वो भुङ्क्ते । एवं षट्कृत्वः इत्यादि । द्वित्रिचतुरः सुच् । ७ । २ । ११० । वारेऽर्थे वर्तमानेभ्य एभ्यः सुच् भवति । द्विः, त्रिः, चतुमुङ्क्ते । एकात् सकृच्चास्य । ७ । २ । १११ । वारार्थादेकशब्दात् सुच् भवति, प्रकृतेश्च सकृदादेशः । एकारमिति सकृद् भुङ्क्ते, करोति, गच्छति ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy