________________
( २२९ )
ननि पूर्वेद्युः, एवमपरेद्युः, अधरेद्युः, उत्तरेद्युः, अन्येद्युः, अन्यतरेसुः इतरेद्युः । उभयशब्दाद घुसे सौ वाच्यौ उभयद्युः, उम येद्युः । ' वर्षेऽर्थे एमः परत् परारि एने त्रयो निंपात्याः' ।
अनद्यतने हिः । ७ । २ । १०१ ।
सप्तम्यन्तादनद्यतन कालार्थात् कि द्वादिसर्वद्यो उल्य होः हिः प्रत्ययो भवति, अनद्य ने । वन् काले इति कर्हि, एवं यर्हि, एतर्हि, तर्हि, अमुर्हि, बहुर्हि ।
प्रकारे था । ७ । २ । १०२ ।
प्रकारार्थे वर्तमानात् संभवत्स्याद्यन्तात् किपट्र्यादिसर्वाद्यवैपुल्यवहोर्था भवति । सर्वप्रकारेणेति सर्वथा एवं यथा, तथा, उपयथा, अन्यथा, अपरथा । 'कथमित्थम् ' केन प्रकारेण कथम्, अनेन प्रकारेण इत्थम् ।
संख्याया धा । ७ । २ । १०४ ।
प्रकारे वर्तमानात संख्यावाचिनो धाप्रत्ययो भवति । एकेन प्रकारेण एकधा । कतिभिः प्रकारैः कतिधा । द्वेधा, त्रेधा । 'एकशब्दाद् ध्यमञपि' ऐकध्यम् - एकेन प्रकारेणेत्यर्थः ।
विचाले च । ७ । २ । १०५ ।
एकस्याने की भावोऽनेकस्य चैकीभावो विचारः, तस्मिन् गम्यमाने संख्यावाचिनो धा वा भवति । एको राशिः द्वौ द्विघा