________________
( २२८ )
क्वकुत्राह । ७ । २ । ९३ ।
कुत्र अत्र इह इत्येते शब्दाः ऋचन्ता निपात्यन्ते । कस्मि-न्निति क्क, कुत्र । एतस्मिन्निति अत्र । अस्मिन्निति इह ।
सप्तम्याः । ७ । २ । ९४ ।
।
सप्तम्यन्तेभ्यः किमद्वयादिसर्वाद्यत्रैपुल्यवहुभ्यः त्रव् भवति । कस्मिन्निति कुत्र । सर्वस्मिन्निति सर्वत्र । तस्मिन्निति तत्र । बहुषु इति बहुत्र ।
कियत्तत्सर्वेकान्यात् काले दा । ७ । २ । ९५ । एभ्यः सप्तम्यन्तेभ्यः कालेऽभिधेये दाप्रययो भवति । करिमन् काले कदा, एवं यदा तदा सर्वदा, एकदा, अन्यदा । साधुनेदानीं तदानीमेतर्हि । ७ । २ । ९६ ।
काले वाच्ये एते निपात्यन्ते । सर्वस्मिन् काले सदा । अस्मिन् कालेऽधुना इदानीम् । तस्मिन् काले तदानीम् । एतस्मिन् काले तर्हि ।
सोsपरेद्यव्यह्नि । ७ । २ । ९७ ।
एते काले निरात्यन्ते । समानेऽहि सद्यः । अस्मिन्नहनि अद्य । परस्मिन्नहि परेद्यवि ।
पूर्वापराधरो त रान्यान्यतरेतरादेद्युस् । ७ । २ । ९८ ।
एभ्यः सप्तम्यन्तेभ्योऽह्नि कालेऽर्थे एवम् भवति । पूर्वस्मि