________________
(२२७) किमद्वयादिसर्वाधवैपुल्यबहोः पित् तस् । ७ । २ । ८९ ।
किंशब्दाद् द्वयादिवनितेभ्यः सर्वादिभ्योऽवैपुल्यार्थाद बहोश्च 'पञ्चम्यन्तात् तस् , स च पिद् भवति । कस्मादिति कुतः । सर्वस्मात् सर्वतः । विश्वतः । बहुभ्यो बहुतः ।
इतोऽत:कुतः । ७।२ । ९० । ___एते तस्प्रत्ययान्ता निपातनीयाः । अस्मादिति इदंशब्दस्य ''इ. आदेशे इतः । एतस्मादिति एतच्छब्दस्य अकारादेशे अतः । कस्मादिति किंशब्दस्य 'कु' आदेशे कुतः । भवत्वायुष्मदीर्घायुर्देवानांप्रियैकार्थाद् । ७।२।९१ ।
भवतु आयुष्मद् दीर्घायुस् देवानांप्रिय इत्येतैः सह समानाधिकरणेभ्यः किमद्वयादिसर्वाद्यवैपुल्यबहुभ्यः सर्वस्याद्यन्तेभ्यः पित् तस् वा भवति । स भवान् , ततो भवान्। ते भवन्तः, ततो भवतः । स आयुष्मान्, तत आयुष्मान् । तमायुष्मस्तम्, तत आयुष्मन्तम् । तेनायुष्मता, तत आयुष्मता । तस्मै आयुष्मते, तत आयुष्मते । तस्मादायुष्मतः, तत आयुष्मतः । तस्यायुष्मतः, तत आयुष्मतः । तस्मिन्नायुष्मति, तत आयुष्मति । स दीर्वायुः, ततो दीर्वायुः। स देवानांप्रियः, ततो देवानां प्रिय ' इत्यादिः । एवमेभ्यस्त्रप्रत्ययोऽपि वा बोध्यः स भवान् , तत्र भवान्। तं भवन्तम्, तत्र भवन्तम् । स आयुष्मान , तत्रायुष्मान् । स दीर्घायुः, तत्र दीर्घायुः । स देवानीप्रियः, तत्र देवानांप्रिय इत्यादिः।