________________
( २२६ )
भूतो भूतपूर्वः, भूतपूर्व आढ्य आढ्यचरः । पकारः पुंवद्भावार्थः भूतपूर्वा आढ्या आढ्यचरी ।
षष्ठ्या रूप्यप्चरद् । ७ । २ । ८० । षष्ठ्यन्ताद् भूतपूर्वेऽर्थे एतौ भवतः । जिनदत्तस्य भूतपूर्वः जिनदत्तरूप्यः, जिनदत्तचरः ।
व्याश्रये तमुः । ७ । २ । ८१ ।
पष्ठ्यन्ताद् व्याश्रये गम्ये तसुर्भवति । नानापक्षाश्रयो व्याश्रयः । विद्वांसो धर्मसूरितोऽभवन् देवद्रव्यचर्चायां-धर्मसूरिक्षावलम्बिनो विद्वांस इत्यर्थः ।
रोगात् प्रतीकारे । ७ । २ । ८२ । षष्ठ्यन्ताद्रोगार्थात् प्रतीकारेऽर्थे तसुः प्रत्ययो भवति । प्रवाहिकाया अपनयनं प्रवाहिकातः कुरु । एवं प्रच्छर्दिकातः कुरु- रोगस्य चिकित्सां कुर्वित्यर्थः ।
पयभेः सर्वोभये । ७ । २ । ८३ । सर्वोभयार्थे यथासंख्यमाभ्यां तसुर्भवति । परितः सर्वत इत्यर्थः । अभितः उभयत इत्यर्थः ।
आद्यादिभ्यः । ७ । २ । ८४ ।
संभवद्विभक्त्यन्तेभ्य आद्यादिभ्यस्तसुर्भवति । आदौ आदेः आदये आदिना वेति आदितः । एवं मध्यतः, अन्ततः भग्रतः, पार्श्वतः पृष्ठतः, मुखतेः ।
,