SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ (२२) ऊर्ध्वादिरिष्टातावुपश्चास्य । ७।२ । ११४ । दिग्देशकालेषु वर्तमानादूर्ध्वशब्दात् प्रथमा-पञ्चमी-सप्तम्यन्ताद् रिरिष्टातौ प्रत्ययो भवतः, ऊर्ध्वस्य चोपादेशः। ऊर्वा दिग्, ऊो देशः कालो वा रमणीयः, उपरि उपरिष्टाद रमणीयः। ऊर्ध्वाया दिशः, ऊर्ध्वाद् देशात् कालाद् वाऽऽगतः उपरि आगतः उपरिष्टाद् वा। ऊ यां दिशि, ऊर्वे देशे काले वा वाति उपरि उपरिष्टाद् वसति । पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैषाम् । ७ । २ । ११५ । दिगदेशकालवृत्तिभ्यः प्रथमापञ्चमीसप्तम्यन्तेभ्य एभ्यः अस् अस्ताच्च भवति, यथासंख्यं चैषां पुर् अव अध् चादेशाः । पूर्वा दिग् देशः कालो वेत्यादि पुरः, अवः, अधः, पुरस्ताद., अवस्ताद्, अधस्ताद् रम्यमागतो वासो वा । परावरात् स्तात् । ७।२।११६ । आभ्यां दिगादिवृत्तिभ्यां प्रथमाद्यन्ताभ्यां स्तात् प्रत्ययो भवति । परस्ताद् रमणीयम् , परस्तादागतः, परस्ताद् वति । एवम् अवरस्तात् । .. दक्षिणोत्तराचातस् । ७ । २। ११७ । आभ्यां पूर्वोक्तार्थाभ्यां स्वार्थेऽतस् भवति । दक्षिणतः, उत्तरतः । . . अघरापराच्चात् । ७।२। ११८। ..
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy