SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ (२२४) - अङ्ग इत्यादिभ्यो मत्वर्थे नो भवति । अङ्गना । पामनः । वामनः । प्रज्ञाश्रद्धा वत्तेर्णः । ७।२।३३। एभ्यो मत्वर्थे णो भवति । प्रज्ञाऽस्त्यस्य प्राज्ञः, प्रज्ञावान् । श्राद्धः, श्रद्धावान् । आर्चः, अर्चावान् । वार्तः, वृत्तिमान् । 'उन्नतोपाधिकाद् दन्ताद् डुरोवाच्यः' उन्नता दन्ताः सन्त्यस्य दन्तुरः। मेधारथाद् नवेरः । ७ । २ । ४१ । आभ्यां मत्वर्थे इरो वा भवति । मेधिरः, मेधावान् , मेधावी। रथिरः, रथिकः, रथी, रथवान्। कृपाहृदयाभ्यामालुर्वाच्यः कृपालुः, कृपावान् । हृदयालुः, हृदयवान्, हृदयिकः, हृदयी । 'केशाद् मत्वथ वो वा वाच्यः , केशाः सन्त्यस्य केशवः, केशी, केशवान् , केशिकः। अस्तपोमायामेधास्रजो विन् । ७ । २।४७ । असन्तेभ्यः तपसादेश्च मत्वर्थे विन् भवति । तेजस्वी, यशस्वी, तपस्वी, मायावी, मेधावी, स्रग्वी, तेजस्वान् इत्यादिः । - .. आमयाद् दीर्घश्च । ७।२।४८। । अतो मत्वर्थे विन् भवति, तद्योगे दीर्घश्च । आमयावी, आमयवान् । स्वाद मिनीशे । ७।२।४९ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy