________________
(२२१)
अतोऽनेकस्वरात् । ७।२।६।। अकारान्तादनेकस्वराद् मत्वर्थे इनिको भवतः । दण्डिकः,. दण्डी, दण्डवान्। एवं छत्री, छत्रिकः, छत्रवान् ।
व्रीह्यर्थतुन्दादेरिलश्च । ७।२।९। व्रीहिवाचिभ्यस्तुन्दादिभ्यश्च मत्वर्थे इल इकेनौ च भवतः । शालिलः, शालिकः, शाली, शालिमान् । तुन्दिलः, तुन्दिकः, तुन्दी, तुन्दवान् । 'विवृद्धोंपाधिकात् स्वाङ्गात् मत्वर्थे पूर्वोकाः प्रत्यया वाच्याः' महान्तौ कणा स्तोऽस्य कर्णिलः, कर्णिका, कर्णी, कर्णवान् । एवमोष्ठिला, ओष्ठिकः, ओष्ठी, ओष्ठवान् । 'वृन्दशब्दादारको वाच्यः' वृन्दारकः, वृन्दवान् । ...
फलबर्हाच्चेनः । ७ । २ । १३।। आभ्यां शृङ्गाच्च मत्वर्थे इनो भवति । फलानि सन्त्यस्य फलिनः, फलवान् । बहिणः, बर्हवान्। शृङ्गिणः, शृङ्गवान्, शृङ्गात्तु आरकोऽपि शृङ्गारकः ।
. मरुत्पर्वणस्तः ।७।२। १५ । मरुत्पर्वभ्यां मत्वर्थे तः प्रत्ययो भवति । मरुत्तः, मरुत्वान् । पर्वतः, पर्ववान् ।
... वलिवटितुण्डेर्भः। ७।२।१६।। ____मत्वर्थे एभ्यो भो भवति । वलिमः, वटिमः, तुण्डिमः। वलिमान्, वटिमान् , तुण्डिमान् ।