SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ (२१६) .... इन्द्रियम् । ७।१ । १७४ । इन्द्रशब्दादियो निपात्यते । इन्द्रस्य लिङ्गमिन्द्रियम् । तेन वित्ते चञ्चुचणौं । ७ । १ । १७५ । तृतीयान्ताद् वित्तेऽर्थे चन्चुचणौ भवतः । विद्यया क्तिः विद्याचन्चुः, विद्याचणः। पूरणाद् ग्रन्थस्य ग्राहके को लुक् चास्य । ७ । १ । १७६ । पुरणप्रत्ययान्तात् तृतीयान्ताद् ग्रन्थस्य ग्राहकेऽर्थे को भवति। तद्योगे च पुरणप्रत्ययस्य लुक् । द्वितीयेन रूपेण ग्रन्थस्य ग्राहक: द्विकः शिष्यः। सोऽस्य मुख्यः ।७।१ । १९० । .. प्रथमान्तात् षष्ठ्यर्थे को भवति । प्रथमान्तं चेद मुख्यं भवेत् । रत्नलालो मुख्योऽस्य स रत्नलालकः तीर्थप्रवासः । उन्मनस्यथें उत्कः, उत्सुकः । साक्षाद् द्रष्टा साक्षी। तदस्यास्त्यस्मिन्निति मतुः।७।२।१। तदिति प्रथमान्तादस्येति षष्ठयथऽस्मिन्निति सप्तम्यर्थे वा मतुः प्रत्ययो भवति । यत् प्रथमान्तं तच्चेदस्तीति । गावोऽस्य सन्तीति गोमान् जिनदत्तः, वृक्षा अस्मिन् सन्तीति वृक्षकाम पर्वतः, एवं धनवान् , प्लक्षवान् ः। अस्तीति वतमानकालोपादान
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy