________________
( २०८) पृथ्वादेरिमन् वा । ७ । १ । ५८॥ पृथु इत्येवमादिभ्यः षष्ठयन्तेभ्यो भावेऽर्थे इमन् वा भवति । पृथोर्भावः पृथु+इमन् इति स्थितेपृथुमृदुभृशकशदृढपरिवृढस्य ऋतो रः।७। ४ । ३९ ।
एषामृकारस्येम्नि ण्यादौ च परे रो भवति । प्रथु+इमन् इति स्थिते
ज्यन्तस्वरादेः । ७ । ४ । ४३ । - तृप्रत्ययस्यान्त्यस्वरादेश्वांशस्येम्नि णौ इष्ठे ईयसौ च परे लुम् भवति । उकारलोपे प्रथिमा, पृथुत्वम्, पृथुता, पार्थवम् । एवं नदिमा, मृदुत्वम् , मृदुता, मार्दवम् । बहुलस्य भावः बहुल+इमन् इति स्थितेप्रियस्थिरस्फिरोरुगुरु
कस्येमनि च प्रास्थास्फावरगरवंत्रपद्राघवर्षवृन्दम् । ७।४।३८ । . प्रियादीनां यथासम्भवमिमनि ण्यादौ च यथासंख्यं प्राइत्याद्यादेशा भवन्ति । वंहिमा । एवं प्रियस्य भावः प्रेमा, स्थिरस्य भावः स्थेमा, वरिमा, गरिमा, त्रपिमा, द्राघिमा, वर्षि, वृन्दिमा । बहोर्भावः बहु+इमन् इति स्थिते
भूलुक्चेवर्णस्य । ७ । ४ । ४१ । होरीयसौ इमनि च परे भूगदेशो भवति । अनयोरिवर्णस्य