SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (२०७) प्राकारीया इष्टकाः, परशुरस्य स्यात् परशव्यमयः, प्रासादो स्मिन् स्यात् प्रासादीयो देशः । ईयाधिकारः समाप्तः। तस्याहे क्रियायां वत् । ७।१।५१। ' तस्येति षष्ठयन्तादहेंऽर्थे वत् भवति, अर्ह चेत् क्रिया मवेत् । राज्ञोऽहं राजवट वृत्तम् , साधोरर्ह साधुवत् । । स्यादेरिवे । ७ । १ । ५२ । स्याद्यन्तादिवाथै सादृश्ये वत् भवति । तच्चेत् सादृश्य क्रियाविषयं भवति । श्वान इव युध्यन्ते श्ववद् युध्यन्ते, देवमिव देवक्त् पश्यति मुनिम् । तत्र । ७।१ । ५३ । __ सप्तम्यन्तादिवार्थे वद् भवति । वाराणस्यामिव वाराणसीवत् प्रयागे प्रासादः । तस्य । ७।१।५४ । . . तस्येति षष्ठ्यन्तादिवाथै वद् भवति । रत्नलालस्येव रत्नलालवत् भृगुलालस्य स्वभावः । भावे त्वतल । ७।१ । ५५। । षष्ठयन्ताद् भावेऽर्थे त्वतलौ भवतः । शब्दस्यार्थे प्रवृत्तिहेतुगुणो भावः । स च जातिगुणक्रियाद्रव्यस्वरूपादिरूपः । गोत्वम्, शुक्लत्वम्, कारकत्वम्, दण्डित्वम्, खत्वम् । गोता, शुक्लता, कारकता, दण्डिता; खता। ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy