________________
(२०६) : पञ्चसर्वविश्वाजनात् कर्मधारये । ७।१।४१ ।
पन्चादिपराज्जनात् कर्मधारयवृत्तेस्तस्मै हितेऽर्थे ईनो भवति । सर्वे च ते जनाश्च सर्वजनाः, तेभ्यो हितं सर्वजनीनम् । एवं पञ्चजनीनम् । विश्वजनीनम् । 'महत्सर्वादिकण । महांश्चासौ जनश्च महाजनः, तस्मै हितं माहाजनिकम्, एवं सार्वजनिकम् । 'सर्वशब्दात् तस्मै हितेऽर्थे णो वा वाच्यः' सर्वस्मै हितः सार्वः, सर्वीयो वा।
परिणामिनि तदर्थे । ७।१।४४ । चतुर्थ्यन्ताच्चतुर्थ्यर्थे परिणामिनि यथाधिकृतं प्रत्ययो भवति । अङ्गाराय परिणमति आङ्गारीयं काष्ठम् । शङ्कव्यं दारु ।
परिखाऽस्य स्यात् । ७।१।४८ । स्यन्तादतः षष्ठयर्थे परिणामिनि एयण भवति । परिखा आसां स्यात् पारिखेय्य इष्टकाः ।
अत्र च । ७ । १ । ४९ । .. - परिखायाः स्यादिति सम्भाव्यायाः प्रथमान्ताया अत्रेति सप्तम्यर्थे एयण् भवति । परिखा अस्यां स्यात् पारिखेयी भूः ।
तद् । ७।१।५०। । :: स्यादिति सम्भाव्यात प्रथमान्तात् षष्ठ्यर्थे परिणामिनि सप्तम्य च यथाधिकृतं प्रत्यया भवन्ति । प्राकार आसां स्यात्