SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ द्वितीयान्ताभ्यामाभ्यां लब्धर्यर्थे यो भवति । धनं लब्धा घन्यः, एवं गण्यः । न्यायार्थादनपेते । ७।१।१३। . पन्चम्यन्ताभ्यामाभ्यामनपेतेऽर्थे यो भवति । न्यायादनपेत न्याय्यम्, एवमर्थ्यम् । 'मतमदाभ्यां षष्ठयन्ताभ्यां करणे यो वाच्या मतस्य मदस्य वा करणं मत्यं मद्यम् । तत्र साधौ । ७।१।१५। सप्तम्यन्तात् साधावर्थे यो भवति । सभायां साधुः सभ्यः। ईयः । ७।१।२८। आ तदो वक्ष्यमाणेष्वर्थेषु ईयोऽधिकृतो वेदितव्यः । उवर्णयुगादेयः। ७।१।३०। उवर्णान्ताद् युगादेश्चातदोऽर्थेषु यो भवति । शङ्कवे हितं शव्यम् । युगाय हितं युग्यम्, हविषे हितं हविष्यम् । तस्मै हिते । ७।१।३५ । चतुर्थ्यन्ताद् हितेऽर्थे यथाधिकृतं प्रत्ययो भवति । वत्साय, हितं. वत्सीयम् , युगाय हितं युग्यम् । 'पाद्याध्यौँ तु तदर्थे यान्तो निपात्यो । पादार्थ पाद्यमुदकम् , अर्घार्थमयं रत्नम् । .. अव्यजात् थ्य, ७।१।३८ । आभ्यां तस्मै हितेऽ थ्यब् भवति । अक्ये हितमविश्यम् । बनायै हितमजथ्यम् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy