SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ( २०४ ) द्वितीयान्तादत्यर्थे पूर्वोक्ताः प्रत्यया भवन्ति । श्वेतपटमर्हति चैतपटिकः । सहस्रमर्हति साहस्रः । शिक्षामर्हति शैक्षिकः । इकणधिकारः समाप्तः 1 यः । ७ । १ । १ । इत उर्ध्व यदनुक्रमिष्यामस्तत्र ईयप्रत्ययादवग् योऽधिकृत वेदितव्यः । वहति रथयुगप्रासङ्गात् । ७ । १।१। एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे यो भवति । रथं वहति रथ्यः । युगं वहति युग्यः । प्रासङ्गं वहति प्रासङ्ग्यः । ' धुरो येयण् धुरं वहति धुर्यः, धौरेयः । हलसीरादिकण् ' । ७ । १ । ६ । वह इक भवति । हलं वहति हालिकः, एवं सैरिकः । ' शकटशब्दादण् वाच्यः' शकटं वहति शाकटो गौः । विध्यत्यनन्येन । ७ । १ । ८ । द्वितीयान्ताद् विध्यत्यर्थे यो भवति, न चेदात्मनोऽन्वेन करणेन विध्येत् । पादौ विध्यति पद्यः कण्टकः । अनन्येनेति किम् - चौरं विध्यति चैत्रः । धगण लुब्धरि । ७ । ११९ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy