SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ (२००) निर्वृत्ते । ६ । ४ । १०५। तृतीयान्ताद् निर्वृत्तेऽर्थे इकण भवति । अहा निवृत्तमाह्निकम् । मासिकम् । तं भाविभूते ।६।४।१०६। द्वितीयान्तात् कालार्थाद् भाविनि भूते चार्थे इकण् भवति । मासं भावी मासिक उत्सवः, मासं भूतो मासिको व्याधिः । तस्मै भृताधीष्टे च । ६ । ४ । १०७ । चतुर्थ्यन्तात् कालवाचिनो भृतेऽधीष्टे चार्थे इकण भवति । मासाय भृतो मासिकः, मासायाधीष्टो मासिकोऽध्यापकः । वेतनेन क्रीतो भृत उच्यते, सत्कारपूर्व व्यापारितस्त्वधीष्टः कथ्यते । सोऽस्य ब्रह्मचर्यतद्वतोः । ६१४। ११६ । प्रथमान्तात् कालविशेषवाचिनोऽस्येति षष्ठयर्थे इ.ण भवति ब्रह्मचर्यै ब्रह्मवारिणि चार्थे । मासोऽभ्य ब्रह्मचर्यस्य तद् मासिक ब्रह्मचर्यम् , एवं वार्षिकम् , मासोऽस्य ब्रह्मचारिणो मासिको ब्रह्मचारी । वार्षिको ब्रह्मचारी। प्रयोजनम् । ६ । ४ । ११७ । प्रथमान्तादस्येति षष्ठयर्थे इकण भवति । प्रथमान्तं प्रयोअनं चेत् । जिनमहः प्रयोजनमस्य तद् जैनमहिकं देवागमनम्, निनशासनोद्धारः प्रयोजनमस्याः सा जैनशासनोद्धारिकी इदानीतनी देवद्रव्यचर्चा विजयधर्मसूरीणाम् । समयात् प्राप्तः । ६।४। १२४ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy