________________
( १९९) यज्ञानां दक्षिणायाम् । ६ । ४ । ९६ । यज्ञवाचिभ्यः षष्ठयन्तेभ्यो दक्षिणायामर्थे इकण भवति अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी । वाजपेयिकी । .
काले कार्ये च भववत् । ६ । ४ । ९८ । कालवाचिनः सप्तम्यन्ताद् देये कायें चार्थे भववत् प्रत्यया भवन्ति । वर्षासु भवमित्यत्र यथा ' वर्षाकालेभ्यः 'इतीकणं, एवं वर्षासु देयं वा कार्य तत्रार्थेऽपि वार्षिकं देयं कार्यं वा ।
तेन हस्ताद् यः । ६ । ४ । १०१ । .तृतीयान्ताद् हस्तशब्दाद् देये कायें चार्थे यो भवति । हस्तेन देयं कार्य वा हास्त्यम् ।. .
.., शोभमाने । ६ । ४ । १०२ । - तृतीयान्ताच्छोभमाने इकण भवति। शीलेन शोभते शैलिकी राजीमती । कर्णवेष्टकाभ्यां शोभते कार्णवेष्टकिकम् । वास्त्रयुगिक शरीरम् । कालात् परिजय्यलभ्यकार्यसुकरे । ६ । ४ । १०४ ।
तृतीयान्तात् कालविशेषवाचिनः परिजय्ये लभ्ये कार्य सुकरे चार्थे इकण भवति । मासेन परिजय्यो रोगो मासिकः । मासेन लयं वेतनं मासिकं वेतनम् । मासेन कार्यः प्रासादो मासिकः । मासेन सुकरं मासिकं व्रतम् । संवत्सरेण कार्यो ग्रन्थः सांवत्सरिको ग्रन्थः ।