________________
( १९८) आरण्यिकः । उपाश्रये वसति औपाश्रयिकः । वृक्षमूले वसति वार्डमूलिकः । 'सतीर्थ्य इति तु निपातनात् ! समाने तीर्थे-गुरौ वसति सतीर्थ्यः ।
.. चन्द्रायणं च चरति । ६।४।०२।.. - अतो गोदानादिभ्यश्च द्वितीयान्तेभ्यश्वरत्यर्थे इकण भवति । चन्द्रायणं चरति चान्द्रायणिकः । गोदानं चरति गौदानिकः । आदित्यवतिकः । ....
क्रोशयोजनपूर्वाच्छताद् योजनाचा.... . भिगमाहे । ६।४। ८६ ।
क्रोशशत-योजनशताभ्यां योजनाच्च पञ्चम्यन्तादभिगमाहेऽये इकण भवति । क्रोशशतादभिगमनमर्हति क्रौशशतिकः, योजन शतादभिगमनमर्हति यौ ननशतिको जैनभिक्षुः, योजनादभिगमनमर्हति यौजनिकः । - संशयं प्राप्ते ज्ञेये । ६ । ४ । ९३ । . संशयमिति द्वितीयान्तात् प्राप्तेऽर्थे इकण भवति, प्राप्तं चेद् ज्ञेयं भवेत् । संशयं प्राप्तः सांशयिको दिगम्बरशिवभूतेरर्थः । .. .. तस्मै योगादेः शक्ते । ६।४।९४।
योगादिभ्यश्चतुर्थ्यन्तेभ्यः शक्तेऽर्थे इकण भवति । योगाय शक्तो यौगिको जयन्तविजयो मुनिः, सन्तापाय शक्तः सान्तापिको ज्वरः ।
.