SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ( १९७ ) प्रहरणम् । ६ । ४ । ६२ । - प्रथमान्तात् षष्ठ्यर्थे इण भवति । तच्चेत् प्रहरणं प्रथमान्तं भवेत् । असिः प्रहरणमस्यासौ आसिकः, चाक्रिकः, मौष्टिक, थानुष्कः । ' शक्तियष्टिभ्यां तु टीकण वाच्यः शक्तिः प्रहरणमस्यासौ शाक्तीक एवं याष्टीकी ।' नास्तिकास्तिकदैष्टिकानि तदस्येत्यथें निपात्यानं नास्ति स्वर्गपुण्यादि इत्येषं मतिर्थस्यासौ नास्तिको जगन्मिथ्यावादी । आस्तिको जैनमुनिः, दैष्टिकः । भक्ष्यं हितमस्मै । ६ । ४ । ६९ । प्रथमान्तादस्मै इति चतुर्थ्यर्थं इकण् भवति । तच्चेत् प्रथमान्तं मक्ष्यं हितं भवेत् । अपूपा भक्ष्यं हितमस्मै आपूपिकः, शाकुलिकः तांत्रिकः । नियुक्तं दीयते । ६ । ४ । ७० । प्रथमान्तादस्मै इति चतुर्थ्यर्थे इकण् भवति । तच्चेत् प्रथमान्तं I नियुक्तं दीयते । अग्रभोजनं नित्यं दीयतेऽस्मै स आग्रभोजनिकः ॥ तंत्र नियुक्ते । ६ । ४ । ७४ । सप्तम्यन्ताद् नियुक्ते इकण् भवति । शुल्कशालायां नियुक्तः शौल्कशालिकः । साधारणद्रव्यरक्षायां नियुक्तः साधारणद्रव्यरक्षिकः देवद्रव्यरक्षायां नियुक्तो दैवद्रव्यरक्षिकः, रक्षा नाम योग्यस्थाने वयः । निकटादिषु वसति । ६ । ४ । ७७ । सप्तम्यन्तेभ्य एम्यो वसत्यर्थे इकण् भवति । अरण्ये वसति
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy