________________
( १९६ )
धर्माधर्माच्चरति । ६ । ४ । ४९ । आभ्यां द्वितीयान्ताभ्यां चरत्यर्थे इक भवति । धर्मे चरति धार्मिकः, अधर्मं चरति आधर्मिकः ।
धर्म्ये । ६ । ४ । ५० ।
षष्ठ्यन्ताद् धर्म्येऽर्थे इकण् भवति । ' न्यायानुवृत्त आचारो धर्मः, तस्मादनपेतं धर्म्यम्' शुल्कशालाया धर्म्यं शौल्कशालिकम् । अवक्रये । ६ । ४ । ५३ ।
षष्ठ्यन्तादवक्रयेऽर्थे इकण् भवति । अवक्रयो भाटकम्, आपणस्यावक्रय आपणिकः । शकटस्यावक्रयः शाकटिकः ।
तदस्य पण्यम् । ६ । ४ । ५४ ।
तदिति प्रथमान्तादस्येति षष्ठ्यर्थे इकण् भवति । तच्चेत् प्रथमान्तं पण्यं भवेत् । अपूपाः पण्यं विक्रेयमस्य आपूपिकः ।
शिल्पम् | ६ | ४ | ५७ ।
प्रथमान्तात् षष्ठ्यर्थे इकण् भवति । तच्चेत् प्रथमान्तं शिल्पं भवेत् । नृत्तं शिल्पमस्य स नार्तिकः । अध्यापनं शिल्पमस्य स आध्यापनिकः ।
शीलम् । ६ । ४ । ५९ ।
प्रथमान्ताच्छीलार्थात् षष्ठ्यर्थे इकण् भवति । पठनं शीलमस्य पाठनिकः । ईर्ष्या शीलमस्य स ऐष्यिको ब्राह्मणः । क्षमा शीलमस्य सक्षामिको जैनमुनिः ।