SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ( १९४) अक्षयूत इत्यादिभ्यस्तृतीयान्तेभ्यो निर्वृत्तेऽर्थे इकण भवति । अक्षयूतेन निवृत्तमाक्षयूतिकं वैरम् , जङ्घाप्रहतेन निवृत्तं जावाप्रहतिकम् । भावार्थादिमो वाच्यः । पाकेन निवृत्तं पाकिमम् । हरत्युत्सङ्गादेः । ६ । ४ । २३ । उत्सङ्गादिभ्यस्तृतीयान्तेभ्यो हरत्यर्थे भावे इकण भवति । उत्सङ्गेन हरति औत्सकिम्, एवमौडुपिकम् । ओजःसहोऽम्भसो वर्तते । ६ । ४ । २७ । __ तृतीयान्तेभ्य ओज इत्यादिभ्यो वर्ततेऽर्थे इकण भवति । ओजसा बलेन वर्तते औजसिकः, साहसिकः, आम्भसिकः । रक्षदुञ्छतोः । ६।४ । ३०। . द्वितीयान्ताद् रक्षदुब्छतोरिकण भवति । नगरं रक्षति नागरिकः । बदरमुञ्छति बादरिकः । पक्षिमत्स्यमृगार्थाद् घ्नति । ६।४।३१। । पक्ष्यर्थमत्स्यार्थमृगार्थवाचिम्यो द्वितीयान्तेभ्यो ऽनत्यर्थे इकण् भवति । पक्षिणो हन्ति पाक्षिकः। मत्स्यान् ध्नन्ति मात्स्यिकाः । मृगान् हन्ति मार्गिकः । हरिणं हन्ति हारिणिकः । परिपन्थात् तिष्ठति च।६।४।३२। । . द्वितीयान्तात् परिपथात् तिष्ठति प्रति चार्थे इकण् भवति । परिपन्थान् हन्ति पारिपाधिकः, परिपन्य तिष्ठति पारिपान्थिकचौरः।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy